|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.39. अध्यायः 039
अथ नारदागमनपर्व ॥ 3 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
कदाचन हास्तिनपुरमुपागतेन नारदेन पाण्डवान्प्रति धृतराष्ट्रादीनां स्वर्गप्राप्तिनिवेदनम्॥ धृतराष्ट्रे गान्धारीकुन्तीसञ्जयैः सह गङ्गायामाप्लुत्य स्वाश्रममागच्छति सति मध्येमार्गं दावाग्निना तत्परीवेष्टनम्॥ धृरराष्ट्रेण सञ्जय प्रत्यप्नितो दूरापसरणप्रेरणापूर्वकं कुन्तीगान्धारीभ्यां सह वन्हौ प्रवेशनम्॥ 3 ॥ ततः सञ्जयेन हिमवत्पर्वतंप्रति गमनम्॥ 4 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्॥ 16-39-1(98223)
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः॥ 16-39-2(98224)
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्॥ 16-39-3(98225)
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते।
तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः। 16-39-4(98226)
नारद उवाच। 16-39-5x(8070)
चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात्।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप॥ 16-39-5(98227)
युधिष्ठिर उवाच। 16-39-6x(8071)
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः॥ 16-39-6(98228)
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः।
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः॥ 16-39-7(98229)
कथं च वर्तते चाद्य पिता मम स पार्थिवः।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः॥ 16-39-8(98230)
नारद उवाच। 16-39-9x(8072)
स्थिरीभूय महाराज शृणु वृत्तं यथातथम्।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने॥ 16-39-9(98231)
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप॥ 16-39-10(98232)
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः।
संजयेन च सूतेन साग्निहोत्रः सयाजकः॥ 16-39-11(98233)
आतस्थे स तपस्तीव्रं पिता तव तपोधनः।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः॥ 16-39-12(98234)
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः॥ 16-39-13(98235)
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी।
संजयः षष्ठभुक्तेन वर्तयामास भारत॥ 16-39-14(98236)
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै॥ 16-39-15(98237)
अनिकेतोथ राजा स बभूव वनगोचरः।
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः॥ 16-39-16(98238)
संजयो नृपतेर्नेता समेषु विषमेषु च।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता॥ 16-39-17(98239)
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ॥ 16-39-18(98240)
अथ वायुः समुद्भुतो दावाग्निरभवन्महान्।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः॥ 16-39-19(98241)
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्॥ 16-39-20(98242)
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे।
निराहारतया राजा मन्दप्राणविचेष्टितः।
असमर्थोऽपसरणे सुकृशे मातरौ च ते॥ 16-39-21(98243)
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्।
इदमाह ततः सूतं संजयं जयतांवरः॥ 16-39-22(98244)
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्॥ 16-39-23(98245)
तमुवाच किलोद्विग्नः संजयो वदतांवरः।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना॥ 16-39-24(98246)
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति॥ 16-39-25(98247)
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्॥ 16-39-26(98248)
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्।
तापसानां प्रशस्यं ते गच्च संजय माचिरम्॥ 16-39-27(98249)
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा॥ 16-39-28(98250)
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो॥ 16-39-29(98251)
ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा॥ 16-39-30(98252)
गान्धारी च महाभागा जननी च पृथा तव।
दावाग्निना समायुक्ते स च राजा पिता तव॥ 16-39-31(98253)
संजयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः॥ 16-39-32(98254)
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः।
प्रययौ संजयो धीमान्हिमवन्तं महीधरम्॥ 16-39-33(98255)
एवं स निधनं प्राप्तः कुरुराजो महामनाः।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते॥ 16-39-34(98256)
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम्।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत॥ 16-39-35(98257)
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते॥ 16-39-36(98258)
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव॥ 16-39-37(98259)
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते॥ 16-39-38(98260)
वैशम्पायन उवाच। 16-39-39x(8073)
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्॥ 16-39-39(98261)
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्॥ 16-39-40(98262)
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः॥ 16-39-41(98263)
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते।
`रुरुदुर्दुःखसंतप्ता वर्णयन्तः पृथां तदा॥ 16-39-42(98264)
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्॥ 16-39-43(98265)
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्॥ 16-39-44(98266)
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्॥ ॥ 16-39-45(98267)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-39-1 द्विवर्षोपनिवृत्तेष्विति झ.पाठः॥ 7-39-5 मे मयाऽतिचिरं दृष्टोऽसीत्यर्थः॥ 7-39-12 मुखे पिण्डान्समाधायेति क.ट.पाठः। वीटां मुखे समाधायेति झ.पाठः॥ 7-39-15 दृश्यतोऽदृश्यत इति। पश्यन्तमपश्यन्तं चानादृत्येत्यर्थः। नियमेन सान्निध्या भावात्॥ 7-39-27 विकर्षणं अनशनम्॥ 7-39-30 ऋषिपुत्रो व्यासपुत्र इति योगसमार्थ्यं सूचितम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|